Posts

Showing posts from August, 2018

विश्वसंस्कृतसम्मेलने (WSC) संस्कृतविदुषां Hooliganism - यन्मम प्रत्यक्षं तत् भवतां समक्षम्।

Image
नमः सर्वेभ्यः विश्वसंस्कृतसम्मेलने अस्मत्संस्कृतमिति गोष्ठ्याम् संस्कृतज्ञैः सभासद्भिः hooliganism प्रकटितम् इति सम्मेलनस्य समायोजकेन अधीशमहोदयेन कुत्रचित् लिखितं दृष्ट्वा तद्विषये मम प्रतिस्पन्दं प्रकटयितुम् इच्छामि। ( https://groups.google.com/forum/#!searchin/bvparishat/hooliganism%7Csort:date/bvparishat/QH0IpCzVFbU/HurcH6fSDgAJ ) - I found the hooliganistic behaviour of some members of the audience to have been shocking, inexcusable, and deeply disturbing. तस्यां सभायां वेदिकायाम् उपरि स्थितानां विचाराः प्रकटिताः hooliganism इत्यादिपदप्रयोगैः। अधुना सभायां अधः निविष्टानां पक्षतः अस्मत्संस्कृतगोष्ठीविषये मम संस्कृतभषया अहं लिखामि। सभायाम् अहमपि उपविष्टः आसम्। अतः तत्र यत्प्रवृत्तं तन्मम प्रत्यक्षम्। तत् भवतां समक्षं यथास्मृति प्रस्तौमि।   "अस्मत्-संस्कृतम्" इति गोष्ठ्याः शीर्षकम्। तत्र संस्कृतं न कस्यापि आसीत्। न कापि व्यक्तिः वेदिकाम् अलङ्कुर्वाणा संस्कृतेन अभाषत! कीदृशं विडम्बनमिदम्! आयोजकानां दोषः तत्रादौ - अधीशमहोदयः प्रष्टव्यः- तस्य