लक्ष्यं किम्? - चलच्चित्रसमीक्षणम्
देशभक्तिच्छद्मनि आर्ष-संस्कृतिद्वेषः ! ’लक्ष्य’-नामकं हिन्दीचलच्चित्रं कार्गिल्-युद्धविषयकं २००४ तमे वर्षे निर्मितं लोकप्रियं , ममापि च प्रियमासीत्। पुनः तस्य चित्रस्य वीक्षणम् अस्मिन् शनिवासरे मया कृतम्। चित्रस्य निदेशकः फर्हान् अक्तर्। चित्रस्य संवादलेखकः जावेद् अक्तर्। पूर्वं न लक्षितः विषयः अधुना प्रत्यक्षीबभूव। तं संविभक्तुमिच्छामि। तत्र नायिका वार्तावाचिका। सा काञ्चित् संवादगोष्ठीमायोजयति कस्याञ्चित् वार्तावाहिन्याम्। पुरुषाणां दृष्ट्या अधुनिके काले नारीणां स्थानम् इति विषयः। कश्चित् त्रिवेदी उपपञ्चाशत्-वर्षीयः संस्कृतमय्या हिन्दीभाषया ब्रवीति यत् - नार्यः गृहभूषणम्। तासां बहिःप्रपञ्चे कार्यकरणं न शोभनम् इति। तन्निराकुर्वन् अपरः कश्चित् युवा आधुनिकशिक्षासम्पन्नः उद्यमपतिः राजीवः कथयति "नार्यः न केवलं पुरुषैः समाः किन्तु , ततः अग्रसराः अपि सन्ति" इति। तेन प्रेरिता नायिका तेन समं विवाहं कर्तुम् उद्युक्ता भवति। अग्रे कथा याति। नायिकया वार्ताप्रसारणाय कार्ग...



Comments
Post a Comment