लक्ष्यं किम्? - चलच्चित्रसमीक्षणम्
देशभक्तिच्छद्मनि आर्ष-संस्कृतिद्वेषः!
’लक्ष्य’-नामकं
हिन्दीचलच्चित्रं कार्गिल्-युद्धविषयकं २००४ तमे वर्षे निर्मितं लोकप्रियं, ममापि च प्रियमासीत्। पुनः तस्य चित्रस्य वीक्षणम् अस्मिन् शनिवासरे मया
कृतम्। चित्रस्य निदेशकः फर्हान् अक्तर्। चित्रस्य संवादलेखकः जावेद् अक्तर्। पूर्वं न लक्षितः विषयः अधुना प्रत्यक्षीबभूव। तं संविभक्तुमिच्छामि।
तत्र नायिका वार्तावाचिका। सा काञ्चित् संवादगोष्ठीमायोजयति
कस्याञ्चित् वार्तावाहिन्याम्। पुरुषाणां दृष्ट्या अधुनिके काले नारीणां स्थानम्
इति विषयः।
कश्चित् त्रिवेदी उपपञ्चाशत्-वर्षीयः संस्कृतमय्या
हिन्दीभाषया ब्रवीति यत् - नार्यः गृहभूषणम्। तासां बहिःप्रपञ्चे कार्यकरणं न
शोभनम् इति।
तन्निराकुर्वन् अपरः कश्चित् युवा आधुनिकशिक्षासम्पन्नः
उद्यमपतिः राजीवः कथयति "नार्यः न केवलं पुरुषैः समाः किन्तु, ततः अग्रसराः अपि सन्ति" इति। तेन प्रेरिता नायिका तेन समं विवाहं
कर्तुम् उद्युक्ता भवति।
अग्रे कथा याति। नायिकया वार्ताप्रसारणाय
कार्गिल्-युद्धक्षेत्रं प्रति गन्तव्ययम् आपद्यते। किन्तु अयं राजीवः यः पूर्वं
प्रगतिपरचिन्तनवत्त्वेन प्रदर्शितः सः तन्नाङ्गीकरोति। तत्र संस्कृतेः उल्लेखं
कुर्वता तेन यत्कथ्यते तस्य तात्पर्यं तावत् - अतिप्राचीना संस्कृतिः पत्न्याः
स्वातन्त्र्यं नानुमनुते इति। नायिका तदा तेन समं कृतं विवाहवाङ्निश्चयं निराकृत्य
ततो गच्छति युद्धक्षेत्रं वार्ताहरणाय।
अस्य किं
तात्पर्यम्? भारतीयाः सामान्यतः महिलानां पुरुषैः
समत्त्वं नाङ्गीकुर्वन्ति। यथा त्रिवेदी (नाम आपि त्रिवेदी इत्यवधानार्हम्)।
आधुनिकशिक्षासम्पन्नाः, प्रगतिपरत्वेन भासमानाः राजीवसदृशाः
ये, तेषामपि हृदये सा एव संस्कृतिः रूढमूला विद्यते यत्र नारी
पुरुषवशवर्तिनी एव भवेदिति। अतः हिन्दुजनाः महिलासमत्त्वम्, तस्याः
स्वातन्त्र्यं कदापि नाचरन्ति, नारीणां दमनकर्तार एव ते इति पर्यवस्यति।
अतिप्राचीना
संस्कृतिः वैदिकी संस्कृतिः। किं सा पत्न्या दास्यमेव कथयति। वैदिकेन मया
तैत्तिरीयब्राह्मणस्य (3.3.3) पारयणं कुर्वता उच्चार्यते - "आर्धो वा एष आत्मनः यत्
पत्नी" इति। इदमेव प्राचीनायाः आर्षसंस्कृतेः हृदयम्। सत्यम् -
"अनुष्ठातॄणां कामोद्भवात् विवेकः विज्ञानं च हीयते" इति
शङ्करभगवत्पादैः गीतभाष्ये (उपोद्घातः) पूर्वमेव कथितं मनुष्याणां स्वभावं जानता। तेन आर्षं
धर्मं सम्यक् अजानद्भिः पुरुषैः प्रमादः कृतः स्यात् नारीणां विषये। तन्न
समर्थ्यते। किन्तु प्रमादे जातेऽपि पुनःसत्पथप्रवृत्तये "धर्ममूलं वेदः
वरीवर्ति" यत्र पत्न्याः समत्त्वं विस्पष्टं कथितं पुरुषेण सह।
स्वात्मपरिष्कार-रूपः अनितरसाधारणः धर्मः यस्मिन् आर्षधर्मे वर्तते, तद्धर्मीया एव काचित् देशस्य रक्षामन्त्रिपदम् अलङ्करोति अद्य इति स्मरणार्हम्।
स्वात्मपरिष्कार-रूपः अनितरसाधारणः धर्मः यस्मिन् आर्षधर्मे वर्तते, तद्धर्मीया एव काचित् देशस्य रक्षामन्त्रिपदम् अलङ्करोति अद्य इति स्मरणार्हम्।
अन्ततः, देशभक्तिः प्रबला भावना, तत्प्रतिपादके चित्रे
तत्प्रतिकूलतया आर्षसंस्कृतिः चित्रीकृता।
अयं संस्कृतिश्रद्धाभङ्गः प्राणापहारकः विषबिन्दुः देशभक्तिरूपे क्षीरपात्रे।
चलच्चित्रक्षेत्रे
अधुनापि भारतीयसंस्कृतेः अवहेलनम् अनुवर्तते इति न तिरोहितो विषयः समेषाम्। आण्डाल्-गोधा
विषयः न प्राचीनः।
"आण्डाल्-गोधा"
अस्माकं मातृसमाना। तस्याः अपमाननं न सहामहे इति कालेऽस्मिन् वयं दृष्टवन्तः।
एवमेव मातापितृसहस्रेभ्योऽपि वत्सलतरा श्रुतिः, अतः मातापितृसमाना समादरणीया च श्रुतिः।
तदनुयायिनी, तदधिष्ठिता अस्मदीया संस्कृतिः। तद्विषयेऽपि
अवधानवन्तः स्याम, अध्ययनपरा भवेम। परस्परं बोधयमः।
One of the way of thinking. stri purushaab atishete...
ReplyDeletena samaa...
We look her as a Shakti...
Iti mama bhaavanaa
Yuktam avalokanam. Mayaapi chitram drushtam . Vishayaha ayam naavalokitaha. Etaadrusha vicharaha avashyamasmaabhihi samaajasya purastat samsthapaniyaaha.
ReplyDeleteYuktam avalokanam. Mayaapi chitram drushtam . Vishayaha ayam naavalokitaha. Etaadrusha vicharaha avashyamasmaabhihi samaajasya purastat samsthapaniyaaha.
ReplyDelete