विश्वसंस्कृतसम्मेलने (WSC) संस्कृतविदुषां Hooliganism - यन्मम प्रत्यक्षं तत् भवतां समक्षम्।
नमः सर्वेभ्यः
विश्वसंस्कृतसम्मेलने अस्मत्संस्कृतमिति गोष्ठ्याम् संस्कृतज्ञैः सभासद्भिः hooliganism प्रकटितम् इति सम्मेलनस्य समायोजकेन अधीशमहोदयेन
कुत्रचित् लिखितं दृष्ट्वा तद्विषये मम प्रतिस्पन्दं प्रकटयितुम् इच्छामि। (https://groups.google.com/forum/#!searchin/bvparishat/hooliganism%7Csort:date/bvparishat/QH0IpCzVFbU/HurcH6fSDgAJ) - I found the
hooliganistic behaviour of some members of the audience to have been shocking,
inexcusable, and deeply disturbing.
तस्यां सभायां वेदिकायाम् उपरि स्थितानां विचाराः प्रकटिताः hooliganism इत्यादिपदप्रयोगैः। अधुना सभायां अधः निविष्टानां
पक्षतः अस्मत्संस्कृतगोष्ठीविषये मम संस्कृतभषया अहं लिखामि। सभायाम्
अहमपि उपविष्टः आसम्। अतः तत्र यत्प्रवृत्तं तन्मम प्रत्यक्षम्। तत् भवतां समक्षं
यथास्मृति प्रस्तौमि।
"अस्मत्-संस्कृतम्" इति गोष्ठ्याः शीर्षकम्। तत्र संस्कृतं न
कस्यापि आसीत्।
न कापि व्यक्तिः वेदिकाम् अलङ्कुर्वाणा संस्कृतेन अभाषत! कीदृशं विडम्बनमिदम्!
आयोजकानां दोषः
तत्रादौ - अधीशमहोदयः प्रष्टव्यः- तस्य कार्यक्रमस्य चलच्चित्रमुद्रणं
कृतम्। तत् किमर्थं न प्रकाश्यते भवता?
तदा स्वयमेव जनाः किं संवृत्तमिति ज्ञातुमर्हन्ति। तद्यदि
कार्यक्रमायोजकैः न मुद्रितं तर्हि केन कृतमिति अवश्यमेव आयोजकाः जानीयुरेव। अतः प्रमाणप्रस्तुतिः आयोजकानां दायित्वम्।
यावदहं स्मरामि - अधीशमहोदयः प्रारम्भे कार्यक्रमस्वरूपं न निरूपितवान्। केवलं
वेदिकायां विद्यमानानां परिचयः कारितः तेन। आयोजकैः
कृता इयमव्यवस्था बुद्धिपूर्विका वा अनवधानप्रयुक्ता वा? अन्यत्र सर्वत्र प्रशंसनीयतया
कृतकार्यः अधीशमहोदयः अत्र नितरां विफलः इति यदि कथ्यते तत् अत्यन्तमेव मृदुवचनम्।
अयमेव दोषः सर्वेषां क्लेशानां निदानम्।
सभासदां प्रतिक्रिया
कार्यक्रमस्य समापनकालः यावन्ननिकटामागतः तावत्पर्यन्तमपि वेदिकास्थैः
कथितानां विचारणां विषये प्रतिस्पन्दप्रकटनाय सभासदः नानुमताः । अधीशमहोदयः इदं
सर्वं पश्यन् अवाक् एव आसीत्। (तदानीं तस्य
"spirit of equanimity" कुत्र गता इति सः
प्रष्टव्यः अधुना।) तदा सभासदां पक्षतः
साग्रहम् अभिप्रायः प्रकटितः यत् प्रश्नोत्तराणां कृते अवकाशो भवेदिति। अगतिकगत्या
आयोजकैः सभासदां बहूनां न्याय्यः सभ्यश्च प्रतिस्पन्दः श्रोतव्यः
आपतितः। न केनापि क्रन्दितम्, न केनापि असभ्यः व्यवहारः
कृतः। वेदिकास्थाः भगिनीः उद्दिश्य यदा प्रश्नाः पृष्टाः,
अभिप्रायाः प्रकटिताः सभ्यतासत्कारभावौ नितान्तं परिरक्षितौ
सभाजनैः। उपशतं जनाः सभायाम् आसन्। तत्र सम्भूय उच्चैः घोषणा न कृता,
तत्रत्यसम्पदः हानिः न कृता। न कस्यापि वाचा शरीरेण वा हिंसनं कृतम्। (सत्यकथनं
यदि कस्यचित् मानसिकं क्लेशमजनयत्, तर्हि सः क्लेश एव न।)
एवञ्च सति Hooliganistic behaviour इति यत् पदम् अधीशमहोदयेन सभासदां विषये
प्रयुक्तं तत् नितराम् निन्द्यम्। सभायां बहवः आचार्याः गुरुवर्याः च आसन्
। विचारं प्रकटितवतां तेषां सर्वेषामपि अपमाननं
कृतं भवति Hooliganistic behaviour इति पदप्रयोगेण। एतदर्थम् अधीशमहोदयः
क्षमायाचनां कुर्यात् इति साग्रहं वदाम्यहम्।
सभ्यतया विचारप्रकटनं यदि Hooliganistic behaviour तर्हि तेषां विषये असभ्यतया Hooliganistic behaviour इति ईदृशः पदप्रयोगः केन पदेन व्यवहारमर्हति?
प्रायः वैदेशिकाः द्वित्राः ये उपविष्टाः आसन् ते चकिताः जाताः स्युः यत् – अयथावात्,
युक्त्यसहं, सत्यादपेतं विचारजातं वेदिकास्थाभिः निरूपितं चेदपि कथमिमे विद्वांसः
संस्कृतज्ञाः कल्याणीमेव वाचम् उच्चारयन्तीति। अतः मिथ्यैव स्वकपोलकल्पितः Hooliganism इत्यादिपदप्रयोगः,
पत्रिकासु लेखश्च ।
सभासदः ये स्वमतं सभ्यतया तत्रैव सभायां प्रतिस्पन्दरूपेण प्राचीकटन् तेषां
विचारः अत्र यथास्मृति यथामति च प्रस्तूयते (तेषामनुमतिं विना तेषां नामानि मया
लेखितुं न शक्यन्ते।) -
उत्तरभारतीयः देहलीनगरस्य
केन्द्रसर्वकारीयविश्वविद्यालयस्य प्राध्यापकः एकः अवदत् –यत् श्रीमत्या कौशलपन्वार महाभागया
एकम् ऋग्वेदवचनम् उद्धृतं तत् उर्वशी-पुरूरवसोः संवादे विद्यते - तत्र च कथितं यत्
महिलानां हृदयं सालावृकसदृशमिति। तदाधारेण वेदसहित्यं महिलानां विषये अनादरं
प्रकटयति इत्यपि कथितं तया। तन्न युक्तम्। तच्च वचनं न पुरूरवसः। तच्च उर्वश्याः एव।
"यस्य वाक्यं स ऋषिः" इति मतेन उर्वश्या
कथितस्य वाक्यस्य ऋषिः उर्वशी एव। अतः महिलानां विषये पुरुषाः निन्दावचनं वेदेषु प्रकटितवन्तः इति यत्कथनं तन्न युक्तम्” इति।
अग्रे च विश्वव्यापिनः संस्कृतसम्भाषणसङ्घटनस्य एकस्य प्रमुखः उत्थाय अवदत् यत् - कर्णाटकस्य मङ्गलूरुनगरनिकटे आ त्रिंशतः वर्षेभ्यः मैत्रेयी गुरुकुलम् इति
बालिकानां गुरुकुलं सञ्चाल्यते यत्र वेदानां संस्कृतस्य च पाठनं प्रवर्तते । शतशः बालिकाः एतावतैव
वेदशिक्षणसम्पन्नाः। किञ्च , उपपञ्चविंशतिवर्षेभ्यः
बेङ्गल्रूरुनिकटस्थे वेदविज्ञानगुरुकुले जातिभेदेन विना सर्वेभ्यः बालेभ्यः
वेदशिक्षणं प्रदीयते। तस्य गुरुकुलस्य प्राचार्यः अत्रैव वर्तते इति तस्यापि
परिचयः कारितः सभायामेव।
तदानीं प्रायः ईदृशं साक्षाद् अपरोक्षम् उदाहरणं , प्रमाणं वा अनिरीक्षमाणा
चकिता तत्-तिरस्करणाक्षमा श्रीमती अनन्या वाजपेयी अवदत् यत् - अवश्यं तादृशं
स्थानं द्रष्टुमिच्छामि इति। गुरुकुलीयैः च सा अमन्त्रिता। (इदं किमर्थं तया हिन्दुपत्रिकायां निजलेखने
न प्राकाशि? यत् पूर्वतनं दुर्भाग्यपूर्णं मुखं तदेव प्राचरणीयमिति किं
कृतसङ्कल्पाः इमे बुद्धिजीविनः? समाजे जायमानानि शोभनानि मैत्रेयीगुरुकुलसदृशानि
ईदृशानि परिवर्तनानि दृश्यन्ते खलु। आशाहीनतां द्वेषभावनां
परिरक्षितुमिष्यामाणानामेषां किं समाजविघटनमुद्देश्यम्? )
किञ्च, दक्षिणभारतीया
काचित् संस्कृतविदुषी या च कस्मिंचित्
विश्वविद्यालये संस्कृतविभागध्यक्षा सा अवदत् यत् - अहं काचित् महिला
ब्राह्मणेतरजातीया । अहम् अध्यापिता, पोषिता
च अस्मि ब्राह्मणैः। अहं च अधुना विश्वविद्यालये विभागप्रमुखपदेऽस्मि। किमिदं न निरूपयति
महिलानां पुरस्कारः संस्कृतक्षेत्रे वर्तते इति।
किञ्च, अपरा, भारतस्य पूर्वदिग्विभागात्
आगता संस्कृतस्य उपप्राध्यापिका अवदत् यत् - ईदृशी काचित् गोष्ठी यदा आयोज्यते तत्र सर्वासां दृष्टीनाम् अवसरः
देयः। अत्र तु केवलं एकस्य पक्षस्य एव मतं प्रकटितम्। विश्ववेदिकायां यदा कश्चित्
विचारः विमृश्यते तत्र सर्वपक्षीयाः अपि समादर्तव्याः। न च एकस्यैव पक्षस्य पोषणं
कर्तव्यमिति।
किञ्च कश्चन प्रश्नमप्राक्षीत् श्रीमतीम् अनन्या(वाजपेयी)-महाभागाम् - वेदे
महिलानामितरजातीयानां वा अधिकारः न दीयते इत्यादि भवत्या भाष्यते। किं भवती वेदेषु
श्रद्धावती ? इति । तदा सा कथितवती, मम श्रद्धा तु भारतीयसंविधाने इति।
तदुत्तरम् अत्यन्तमेव वरिष्ठः कश्चित् विद्वान् यश्च विश्वसंस्कृतसम्मेलने उद्घाटनसत्रेऽपि भाषणमकरोत् तेन कथितं यत् मनुस्मृतिसाहित्ये किञ्चन वचनमस्ति तद्विषये कः भवत्याः विचारः?
इति । तच्च वचनं - "अस्वर्ग्यं लोकविद्विष्टं
धर्ममप्याचरेन्न तु" मनुस्मृतिपरिशिष्टम् १२३। सुबहुकालात् पूर्वमेव मनुस्मृतौ
प्रयुक्तं लोकविद्विष्टमिति पदं संविधानस्य हृदयमेव, पारम्यमेव सूचयति इति भावेन प्रायः तेन मूर्धन्येन विदुषा
तद्वचनम् उद्धृतमिति भावयामि। (प्रायः
अस्य प्रश्नस्य साक्षादुत्तरं दातुमसमर्था सा महाभागा इति मम स्मृतिः)।
ममापि वक्तुं मनसि विचाराः स्फुरिताः आसन्। किन्तु अवसरः न लब्धः। तदत्र
संक्षेपेण निवेद्यते - यद् यद् भाषितं वेदिकास्थाभिः वक्त्रीभिः तत् सर्वमपि
अत्युन्नताट्टालिकागतानां वचनम् इति प्रत्यभात्। किञ्च तद्वचनं केवलं
ग्रन्थाधारितं, न तु वस्तुस्थित्याधारितम् इत्यभात्।
भारते आधुनिके काले महिलाः वेदाध्ययनरताः। योगिवर्यश्रीकृष्णमाचार्यसदृशाः वेदाध्ययने
महिलानां प्रवृत्त्युत्पादने अग्रसराः, यस्य
च उत्तमः प्रभावः अधुना समाजे दृश्यते। योगविद्यायामपि विशिष्य महिलानां
प्रवृत्तिः श्रीकृष्णमाचार्यादीनां प्रयत्नेन सिद्धा।
संन्यासेऽपि अधिकारः विद्यते महिलानाम्। रामकृष्णमठः, चिन्मयमिशन् इत्येतादृशीषु संस्थासु अनेकाः वन्दनीयाः
संन्यासिन्यः मातरः विद्यन्ते इति सर्वविदितमेव।
एवञ्च योगविद्यायां, वेदविद्यायां, ब्रह्मविद्यायामपि पुरुषाः महिलाश्च समानाः
जायमानाः जाताः आधुनिके हिन्दुसमाजे । इदं वास्तविकं दृश्यम्।
उपसंहारः
वेदधर्मस्य अधुनातनस्थितेः विषये मिथ्याप्रलापप्रवादं पूर्वपक्षीकृत्य
संस्कृतक्षेत्रस्य नाविधनसंस्थासु कार्यं कुर्वाणानां, भारतस्य नानादिग्भ्यः
समागतानां, पुरुषाणां महिलानां, यूनां
वृद्धानां च युक्तिपूर्णं सत्यनिष्ठं
वास्तविकं सभ्यं वचनजातं श्रावं श्रावम् आत्मानमहं
धन्यममन्ये । अधुनापि तत् स्मारं स्मारं रोमाञ्चमनुभवामि। तच्च वचोजातं यथामति यथास्मृति च यथावत्
संविभक्तवानिति आत्मानं कृतार्थं मन्ये।
ईदृशं वचोजातमेव Hooliganism इति बिरुदप्रदानेन
सम्मानितमस्ति। किञ्च, यदि सर्वेऽपि कोलाहलरताः कथमेतावन्तः
विचाराः स्पष्टं स्मर्तुं शक्याः अभविष्यन् | यदि मम वचनानि स्वकपोलकल्पितानि इति
कथ्यन्ते विपक्षीयाणामपि समानो दोषः लगति इत्यलमतिविस्तरेण।
प्रणम्य विरमति
जयरामः
समीचीनं व्याख्यानम्। अस्माकं संस्कृतेः उपरि सदा परोक्षण वा प्रत्यक्षेण रूपेण वाक्स्वतन्त्रता इति अधिकृत्य आक्रमणं भवति। अत्र भारतीय विदुषां कृते अशिष्टचारीप्रयोगः कष्टदायकः। आयोजकानाम् पक्षपातव्यवहारो दृश्यते। मया discussion forum तथा हिन्दूपत्रिकायां अस्य विषयः पठितः। संस्कृतिः सभ्यतायाःः प्रतिनिधित्ववं करोति। इत्थं hooliganism शब्दानां प्रयोगः न साधु। वादविवादः शास्त्रेषु एककला एकानुशासनमेव पठ्यते। तर्केण वादं कर्तुम् अशक्यता पत्रिकायम् आक्षेपस्य प्रमाणं विना प्रकाशनं न न्यायः।
ReplyDeleteवारिजा